पूर्णेन्दूदयरजनीशीतले
वर्णप्रभां दातुमिव तारका विकसन्ति ।
भक्त्याकुला राधिका भूत्वाहम्
मोक्षप्रद त्वत्समीपमुपागता ॥
मोहावहेषु तव नीललोचनेषु
तृष्णां जनयन्ति पक्ष्मपवित्ररेखाः ।
मौनलयेन शनकैः त्वमाह्वयसि चेत्
नौकेव प्लवते मम शृङ्गारः ॥
नीलोत्पलदलसदृशाङ्गुलयः
वस्त्रायमाणाः तनुमालिलिङ्गिरे यदा ।
श्वेतमल्लीलतिका इव मम गात्रे
प्रसरति चन्द्रमापि लज्जया प्रभां न्यधात् ॥